तां देवमायामिव धीरमोहिनीं सुमध्यमां कुण्डलमण्डिताननाम्। श्यामां नितम्बार्पितरत्नमेखलां व्यञ्जत्स्तनीं कुन्तलशङ्कितेक्षणाम्॥५१॥ शुचिस्मितां बिम्बफलाधरद्युति शोणायमानद्विजकुन्दकुड्मलाम्। पदा चलन्तीं कलहंसगामिनीं सिञ्जत्कलानूपुरधामशोभिना॥५२॥ विलोक्य वीरा मुमुहुः समागता यशस्विनस्तत्कृतहृच्छयार्दिताः। यां वीक्ष्य ते नृपतयस्तदुदारहास व्रीदावलोकहृतचेतस उज्झितास्त्राः॥५३॥ पेतुः क्षितौ गजरथाश्वगता विमूढा यात्राच्छलेन हरयेऽर्पयतीं स्वशोभाम्। सैवं शनैश्चलयती चलपद्मकोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणा॥५४॥ उत्सार्य वामकरजैरलकानपङ्गैः प्राप्तान्ह्रियैक्षत नृपान् ददृशेऽच्युतं च। तां राजकन्यां रथमारुरक्षतीं जहार कृष्णो द्विषतां समीक्षताम्॥५५॥ रथं [...]